|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.95. अध्यायः 095
Mahabharata - Drona Parva - Chapter Topics
राज्ञां द्वन्द्वीभूय युद्धाय समागमः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-95-0x(4510)(48404)
प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे॥ 7-95-1(48405)
जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत॥ 7-95-2(48406)
तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम्।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम्॥ 7-95-3(48407)
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्क च श्रुतम्।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते॥ 7-95-4(48408)
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन्॥ 7-95-5(48409)
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्।
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः॥ 7-95-6(48410)
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते॥ 7-95-7(48411)
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके॥ 7-95-8(48412)
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान्॥ 7-95-9(48413)
भारद्वाजानिलोद्भूतः शरधारासहस्रवान्।
अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम्॥ 7-95-10(48414)
समुद्रमिव घर्मान्ते विशन्घोरो महानिलः।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः॥ 7-95-11(48415)
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव॥ 7-95-12(48416)
वारयामास तान्द्रोणो जलौघमचलो यथा।
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान्॥ 7-95-13(48417)
अथापरे च राजानः परिवृत्य समन्ततः।
महाबला रणे शूराः पाञ्चालानन्ववारयन्॥ 7-95-14(48418)
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम्॥ 7-95-15(48419)
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत॥ 7-95-16(48420)
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः।
ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः॥ 7-95-17(48421)
शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम्।
निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम्॥ 7-95-18(48422)
यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः॥ 7-95-19(48423)
तथा तु यतमानस्य द्रोणस्य युधि भारत।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत॥ 7-95-20(48424)
भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः॥ 7-95-21(48425)
सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः॥ 7-95-22(48426)
धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव॥ 7-95-23(48427)
कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान्।
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः॥ 7-95-24(48428)
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी॥ 7-95-25(48429)
अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा॥ 7-95-26(48430)
त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः।
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः॥ 7-95-27(48431)
मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः॥ 7-95-28(48432)
रथं नागं हयं चापि पत्तिनश्च विशाम्पते।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः॥ 7-95-29(48433)
पाण़्डवानां तु सैन्येषु नास्ति कश्चित्स भारत।
दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो॥ 7-95-30(48434)
तत्पच्यमानमर्केण द्रोणसायकतापितम्।
बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत॥ 7-95-31(48435)
`हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः।
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ'॥ 7-95-32(48436)
तथैव पार्षतेनापि काल्यमानं बलं तव।
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना॥ 7-95-33(48437)
बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः।
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः॥ 7-95-34(48438)
तावकानां परेषां च युध्यतां भरतर्षभ।
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात्॥ 7-95-35(48439)
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः॥ 7-95-36(48440)
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः॥ 7-95-37(48441)
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः।
सहसेनः सहामात्यो द्रौपदेयानवारयत्॥ 7-95-38(48442)
शैब्यो गोवासनो राजा योधैर्दशशतावरैः।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत्॥ 7-95-39(48443)
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्।
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत्। 7-95-40(48444)
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि॥ 7-95-41(48445)
स्वकेनाहमनीकेन सन्नद्धः कवचावृतः।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम्॥ 7-95-42(48446)
शकुनिस्तु सहानीको माद्रीपुत्राववारयत्।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः॥ 7-95-43(48447)
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्।
प्राणांस्तक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ॥ 7-95-44(48448)
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्।
बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत्॥ 7-95-45(48449)
धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः।
आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत्॥ 7-95-46(48450)
घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम्।
अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे॥ 7-95-47(48451)
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत्॥ 7-95-48(48452)
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः॥ 7-95-49(48453)
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ।
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः॥ 7-95-50(48454)
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः॥ 7-95-51(48455)
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः॥ ॥ 7-95-52(48456)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चनवतितमोऽध्यायः॥ 95 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-95-7 हिमात्यये शिशिरे। सेनाग्रे प्रधाने सेने॥ 5-95-18 प्लावयामास विद्रावितवान्॥ 5-95-19 अपाकर्षत व्यावर्तितवान्॥ 5-95-22 सङ्घट्टयति सम्मेलयति॥ 5-95-39 काश्यस्य काशिराजस्य॥ 5-95-46 आवन्त्योऽन्यः॥ 5-95-95 पञ्चनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|